prajñāpāramitā-hṛdaya-sūtraṃ
प्रज्ञापारमिताहृदयसूत्रं
摩訶般若波羅密多心經
마하반야바라밀다심경
नमः सर्वज्ञाय
歸命一切智者
आर्यावलोकितेश्वरो बोधिसत्त्वो
觀自在菩薩
गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो
行深般若波羅密多時
व्यवलोकयति स्म ।
照見
पंचस्कन्धाः तांश्च स्वभावशून्यान्पश्यति स्म ।
五蘊皆空 [度一切苦厄]
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं ।
舍利子! <色卽是空 空卽是色>
रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं ।
色不異空 空不異色
यद्रूपं सा शून्यता या शून्यता तद्रूपं ।
色卽是空 空卽是色
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
受想行識 亦復如是
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा
舍利子 是諸法空相
अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।不生不滅 不垢不淨 不增不減
तस्माच्छारिपुत्र शून्यतायां न रूपं
是故 空中無色
न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
無受想行識
न चश्रुःश्रोत्रघ्राणजिह्वाकायमनांसि ।
無眼耳鼻舌身意
न रूपशब्दगंधरसस्प्रष्टव्यधर्माः ।
無色聲香味觸法
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
無眼界 乃至 無意識界
न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो
無無明 亦無無明盡
यावन्न जरामरणं न जरामरणक्षयो
乃至 無老死 亦無老死盡
न दुःखसमुदयनिरोधमार्गा
無苦集滅道
न ज्ञानं न प्राप्तिर्नाप्राप्तिः ॥
無智亦無得
तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां
以無所得故 菩提薩陀
प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
依般若波羅密多 故心無罣碍
चित्तावरणनास्तित्वादत्रस्तो
無罣碍故 無有空怖
विपार्यासातिक्रान्तो निष्ठनिर्वाणः ॥
遠離顚倒夢想 究竟涅槃
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः
三世諸佛
प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।
依般若波羅密多 故得阿耨多羅三藐三菩提
तस्माज्ज्ञातव्यं प्रज्ञापारमिता
故知 般若波羅密多
महामन्त्रो महाविद्यामन्त्रो
是大神呪 是大明呪
ऽनुत्तरमन्त्रो ऽसमसममन्त्रः
是無上呪 是無等等呪
सर्वदुःखप्रशमनःसत्यममिथ्यत्वात् ।
能除一切苦 眞實不虛
प्रज्ञपारमितायामुक्तो मन्त्रः तद्यथा ।
故說 般若波羅密多呪 卽說呪曰
गते गते पारगते पारसंगते बोधि स्वाहा ॥
揭諦揭諦 波羅揭諦 波羅僧揭諦 苦提娑婆訶
गते गते पारगते पारसंगते बोधि स्वाहा ॥
揭諦揭諦 波羅揭諦 波羅僧揭諦 苦提娑婆訶